26स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमाञ्च निरचिनोत्;
27तस्मात् लोकैः केनापि प्रकारेण मृगयित्वा परमेश्वरस्य तत्वं प्राप्तुं तस्य गवेषणं करणीयम्।
28किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।
29अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं।
30तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,
31यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
32तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।
33ततः पौलस्तेषां समीपात् प्रस्थिातवान्।
34तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये ऽरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्।