8युष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्,
9यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।
10ख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते।
11एतस्य कारणं किं? युष्मासु मम प्रेम नास्त्येतत् किं तत्कारणं? तद् ईश्वरो वेत्ति।
12ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति।
13तादृशा भाक्तप्रेरिताः प्रवञ्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति।
14तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,
15ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।
16अहं पुन र्वदामि कोऽपि मां निर्ब्बोधं न मन्यतां किञ्च यद्यपि निर्ब्बोधो भवेयं तथापि यूयं निर्ब्बोधमिव मामनुगृह्य क्षणैकं यावत् ममात्मश्लाघाम् अनुजानीत।