11तथापि प्रभो र्विधिना पुमांसं विना योषिन्न जायते योषितञ्च विना पुमान् न जायते।
12यतो यथा पुंसो योषिद् उदपादि तथा योषितः पुमान् जायते, सर्व्ववस्तूनि चेश्वराद् उत्पद्यन्ते।
13युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?
14पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं
15यत आच्छादनाय तस्यै केशा दत्ता इति किं युष्माभिः स्वभावतो न शिक्ष्यते?
16अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।
17युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः।
18प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये किञ्चित् सत्यं मन्यते च।
19यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।
20एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि;
21यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।
22भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः।
23प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।
24परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।