Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 19

लूकः 19:1-10

Help us?
Click on verse(s) to share them!
1यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा
2सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको
3यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य
4येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।
5पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
6ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।
7तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।
8किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
9तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।
10यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।

Read लूकः 19लूकः 19
Compare लूकः 19:1-10लूकः 19:1-10