17ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?
18ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।
19अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,
20रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?
21अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।
22अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।
23भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति।