Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 16

रोमिणः 16:17-25

Help us?
Click on verse(s) to share them!
17हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।
18यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।
19युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।
20अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
21मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।
22अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।
23तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।
24अस्माकं प्रभु र्यीशुख्रीष्टा युष्मासु सर्व्वेषु प्रसादं क्रियात्। इति।
25पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,

Read रोमिणः 16रोमिणः 16
Compare रोमिणः 16:17-25रोमिणः 16:17-25