Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 8

योहनः 8:3-12

Help us?
Click on verse(s) to share them!
3तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्
4हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः।
5एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति?
6ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।
7ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।
8पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत।
9तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।
10तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति?
11सावदत् हे महेच्छ कोपि न तदा यीशुरवोचत् नाहमपि दण्डयामि याहि पुनः पापं माकार्षीः।
12ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।

Read योहनः 8योहनः 8
Compare योहनः 8:3-12योहनः 8:3-12