Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 5

योहनः 5:1-6

Help us?
Click on verse(s) to share them!
1ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।
2तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।
3तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।
4यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।
5तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।
6यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?

Read योहनः 5योहनः 5
Compare योहनः 5:1-6योहनः 5:1-6