Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 20

योहनः 20:2-11

Help us?
Click on verse(s) to share them!
2पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।
3अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां।
4उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।
5तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्।
6अपरं शिमोन्पितर आगत्य श्मशानस्थानं प्रविश्य
7स्थापितवस्त्राणि मस्तकस्य वस्त्रञ्च पृथक् स्थानान्तरे स्थापितं दृष्टवान्।
8ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।
9यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।
10अनन्तरं तौ द्वौ शिष्यौ स्वं स्वं गृहं परावृत्यागच्छताम्।
11ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य

Read योहनः 20योहनः 20
Compare योहनः 20:2-11योहनः 20:2-11