4किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।
5अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।
6तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो
7तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां।
8तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।
9एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्
10पद्भ्यामुत्तिष्ठन् ऋजु र्भव।ततः स उल्लम्फं कृत्वा गमनागमने कुतवान्।
11तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।