Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 14

प्रेरिताः 14:19-26

Help us?
Click on verse(s) to share them!
19आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।
20किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्।
21तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।
22बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।
23मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य
24पिसिदियामध्येन पाम्फुलियादेशं गतवन्तौ।
25पश्चात् पर्गानगरं गत्वा सुसंवादं प्रचार्य्य अत्तालियानगरं प्रस्थितवन्तौ।
26तस्मात् समुद्रपथेन गत्वा ताभ्यां यत् कर्म्म सम्पन्नं तत्कर्म्म साधयितुं यन्नगरे दयालोरीश्वरस्य हस्ते समर्पितौ जातौ तद् आन्तियखियानगरं गतवन्ता।

Read प्रेरिताः 14प्रेरिताः 14
Compare प्रेरिताः 14:19-26प्रेरिताः 14:19-26