9तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,
10हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
11अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।
12एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।
13तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।
14पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।
15व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।
16अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।
17एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्।
18चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा
19किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्।
20पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।
21तैश्च राज्ञि प्रार्थिते, ईश्वरो बिन्यामीनो वंशजातस्य कीशः पुत्रं शौलं चत्वारिंशद्वर्षपर्य्यन्तं तेषामुपरि राजानं कृतवान्।
22पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान।
23तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।
24तस्य प्रकाशनात् पूर्व्वं योहन् इस्रायेल्लोकानां सन्निधौ मनःपरावर्त्तनरूपं मज्जनं प्राचारयत्।
25यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।
26हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।
27यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
28प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।
29तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।
30किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,
31पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।
32अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।
33इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।
34परमेश्वरेण श्मशानाद् उत्थापितं तदीयं शरीरं कदापि न क्षेष्यते, एतस्मिन् स स्वयं कथितवान् यथा दायूदं प्रति प्रतिज्ञातो यो वरस्तमहं तुभ्यं दास्यामि।
35एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि।
36दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;
37किन्तु यमीश्वरः श्मशानाद् उदस्थापयत् स नाक्षीयत।
38अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।
39फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।
40अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥
41येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते।
42यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।