12तां प्रतीदं वाक्यम् उक्तं, ज्येष्ठः कनिष्ठं सेविष्यते,
13यथा लिखितम् आस्ते, तथाप्येषावि न प्रीत्वा याकूबि प्रीतवान् अहं।
14तर्हि वयं किं ब्रूमः? ईश्वरः किम् अन्यायकारी? तथा न भवतु।
15यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।
16अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।
17फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।
18अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।
19यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?
20हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?
21एकस्मान् मृत्पिण्डाद् उत्कृष्टापकृष्टौ द्विविधौ कलशौ कर्त्तुं किं कुलालस्य सामर्थ्यं नास्ति?