Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 7

योहनः 7:42-49

Help us?
Click on verse(s) to share them!
42सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?
43इत्थं तस्मिन् लोकानां भिन्नवाक्यता जाता।
44कतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्।
45अनन्तरं पादातिगणे प्रधानयाजकानां फिरूशिनाञ्च समीपमागतवति ते तान् अपृच्छन् कुतो हेतोस्तं नानयत?
46तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।
47ततः फिरूशिनः प्रावोचन् यूयमपि किमभ्रामिष्ट?
48अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?
49ये शास्त्रं न जानन्ति त इमेऽधमलोकाएव शापग्रस्ताः।

Read योहनः 7योहनः 7
Compare योहनः 7:42-49योहनः 7:42-49