7ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।
8तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि।
9स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।
10तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।
11ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्।