31तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।
32अतः सेना आगत्य यीशुना सह क्रुशे हतयोः प्रथमद्वितीयचोरयोः पादान् अभञ्जन्;
33किन्तु यीशोः सन्निधिं गत्वा स मृत इति दृष्ट्वा तस्य पादौ नाभञ्जन्।
34पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।