13तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;
14अत्र स्थाने च ये लोकास्तव नाम्नि प्रार्थयन्ति तानपि बद्धुं स प्रधानयाजकेभ्यः शक्तिं प्राप्तवान्, इमां कथाम् अहम् अनेकेषां मुखेभ्यः श्रुतवान्।
15किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।
16मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।
17ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।
18इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।
19ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं
20सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।
21तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?
22किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।
23इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः
24किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;
25तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्।
26ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।
27एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।
28ततः शौलस्तैः सह यिरूशालमि कालं यापयन् निर्भयं प्रभो र्यीशो र्नाम प्राचारयत्।
29तस्माद् अन्यदेशीयलोकैः सार्द्धं विवादस्योपस्थितत्वात् ते तं हन्तुम् अचेष्टन्त।
30किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।
31इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।
32ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।
33तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,
34हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।
35एतादृशं दृष्ट्वा लोद्शारोणनिवासिनो लोकाः प्रभुं प्रति परावर्त्तन्त।
36अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी
37तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्।
38लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।
39तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।
40किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।