14किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।
15तदा ते सभातः स्थानान्तरं गन्तुं तान् आज्ञाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन्
16तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।