Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 21

प्रेरिताः 21:5-25

Help us?
Click on verse(s) to share them!
5ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।
6ततः परस्परं विसृष्टाः सन्तो वयं पोतं गतास्ते तु स्वस्वगृहं प्रत्यागतवन्तः।
7वयं सोरनगरात् नावा प्रस्थाय तलिमायिनगरम् उपातिष्ठाम तत्रास्माकं समुद्रीयमार्गस्यान्तोऽभवत् तत्र भ्रातृगणं नमस्कृत्य दिनमेकं तैः सार्द्धम् उषतवन्तः।
8परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।
9तस्य चतस्रो दुहितरोऽनूढा भविष्यद्वादिन्य आसन्।
10तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्।
11सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति।
12एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि;
13किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।
14तेनास्माकं कथायाम् अगृहीतायाम् ईश्वरस्य यथेच्छा तथैव भवत्वित्युक्त्वा वयं निरस्याम।
15परेऽहनि पाथेयद्रव्याणि गृहीत्वा यिरूशालमं प्रति यात्राम् अकुर्म्म।
16ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।
17अस्मासु यिरूशालम्युपस्थितेषु तत्रस्थभ्रातृगणोऽस्मान् आह्लादेन गृहीतवान्।
18परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः।
19अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।
20इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।
21शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।
22त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।
23व्रतं कर्त्तुं कृतसङ्कल्पा येऽस्मांक चत्वारो मानवाः सन्ति
24तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।
25भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।

Read प्रेरिताः 21प्रेरिताः 21
Compare प्रेरिताः 21:5-25प्रेरिताः 21:5-25