14तेनास्माकं कथायाम् अगृहीतायाम् ईश्वरस्य यथेच्छा तथैव भवत्वित्युक्त्वा वयं निरस्याम।
15परेऽहनि पाथेयद्रव्याणि गृहीत्वा यिरूशालमं प्रति यात्राम् अकुर्म्म।
16ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।
17अस्मासु यिरूशालम्युपस्थितेषु तत्रस्थभ्रातृगणोऽस्मान् आह्लादेन गृहीतवान्।
18परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः।
19अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।
20इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।
21शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।
22त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।
23व्रतं कर्त्तुं कृतसङ्कल्पा येऽस्मांक चत्वारो मानवाः सन्ति
24तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।
25भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।
26ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्।
27तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा
28प्रोच्चैः प्रावोचन्, हे इस्रायेल्लोकाः सर्व्वे साहाय्यं कुरुत। यो मनुज एतेषां लोकानां मूसाव्यवस्थाया एतस्य स्थानस्यापि विपरीतं सर्व्वत्र सर्व्वान् शिक्षयति स एषः; विशेषतः स भिन्नदेशीयलोकान् मन्दिरम् आनीय पवित्रस्थानमेतद् अपवित्रमकरोत्।
29पूर्व्वं ते मध्येनगरम् इफिषनगरीयं त्रफिमं पौलेन सहितं दृष्टवन्त एतस्मात् पौलस्तं मन्दिरमध्यम् आनयद् इत्यन्वमिमत।
30अतएव सर्व्वस्मिन् नगरे कलहोत्पन्नत्वात् धावन्तो लोका आगत्य पौलं धृत्वा मन्दिरस्य बहिराकृष्यानयन् तत्क्षणाद् द्वाराणि सर्व्वाणि च रुद्धानि।
31तेषु तं हन्तुमुद्यतेेषु यिरूशालम्नगरे महानुपद्रवो जात इति वार्त्तायां सहस्रसेनापतेः कर्णगोचरीभूतायां सत्यां स तत्क्षणात् सैन्यानि सेनापतिगणञ्च गृहीत्वा जवेनागतवान्।
32ततो लोकाः सेनागणेन सह सहस्रसेनापतिम् आगच्छन्तं दृष्ट्वा पौलताडनातो न्यवर्त्तन्त।
33स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?