29यतो मया गमने कृतएव दुर्जया वृका युष्माकं मध्यं प्रविश्य व्रजं प्रति निर्दयताम् आचरिष्यन्ति,
30युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।
31इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।
32इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्।
33कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः।
34किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।
35अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।
36एतां कथां कथयित्वा स जानुनी पातयित्वा सर्वैः सह प्रार्थयत।