Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 20

प्रेरिताः 20:24-30

Help us?
Click on verse(s) to share them!
24तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।
25अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।
26युष्मभ्यम् अहम् ईश्वरस्य सर्व्वान् आदेशान् प्रकाशयितुं न न्यवर्त्ते।
27अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि।
28यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,
29यतो मया गमने कृतएव दुर्जया वृका युष्माकं मध्यं प्रविश्य व्रजं प्रति निर्दयताम् आचरिष्यन्ति,
30युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।

Read प्रेरिताः 20प्रेरिताः 20
Compare प्रेरिताः 20:24-30प्रेरिताः 20:24-30