Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 18

प्रेरिताः 18:4-14

Help us?
Click on verse(s) to share them!
4पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।
5सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।
6किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।
7स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्।
8ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।
9क्षणदायां प्रभुः पौलं दर्शनं दत्वा भाषितवान्, मा भैषीः, मा निरसीः कथां प्रचारय।
10अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते।
11तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्।
12गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा
13मानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः।
14ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।

Read प्रेरिताः 18प्रेरिताः 18
Compare प्रेरिताः 18:4-14प्रेरिताः 18:4-14