11तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।
12ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।
13तस्य नगरस्य सम्मुखे स्थापितस्य यूपितरविग्रहस्य याजको वृषान् पुष्पमालाश्च द्वारसमीपम् आनीय लोकैः सर्द्धं तावुद्दिश्य समुत्सृज्य दातुम् उद्यतः।
14तद्वार्त्तां श्रुत्वा बर्णब्बापौलौ स्वीयवस्त्राणि छित्वा लोकानां मध्यं वेगेन प्रविश्य प्रोच्चैः कथितवन्तौ,
15हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।
16स ईश्वरः पूर्व्वकाले सर्व्वदेशीयलोकान् स्वस्वमार्गे चलितुमनुमतिं दत्तवान्,