19यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
20त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
21तस्मात् पितरोऽवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
22ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।
23तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
24परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।
25पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
26पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
27तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,
28अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।
29इति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?