Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 2

लूकः 2:10-31

Help us?
Click on verse(s) to share them!
10तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट,
11सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।
12यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति।
13दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,
14सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥
15ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः।
16पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः।
17इत्थं दृष्ट्वा बालकस्यार्थे प्रोक्तां सर्व्वकथां ते प्राचारयाञ्चक्रुः।
18ततो ये लोका मेषरक्षकाणां वदनेभ्यस्तां वार्त्तां शुश्रुवुस्ते महाश्चर्य्यं मेनिरे।
19किन्तु मरियम् एतत्सर्व्वघटनानां तात्पर्य्यं विविच्य मनसि स्थापयामास।
20तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।
21अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे।
22ततः परं मूसालिखितव्यवस्थाया अनुसारेण मरियमः शुचित्वकाल उपस्थिते,
23"प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया
24यीशुं परमेश्वरे समर्पयितुम् शास्त्रीयविध्युक्तं कपोतद्वयं पारावतशावकद्वयं वा बलिं दातुं ते तं गृहीत्वा यिरूशालमम् आययुः।
25यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
26अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।
27अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा
28शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,
29हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्।
30यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।
31इस्रायेलीयलोकस्य महागौरवरूपकं।

Read लूकः 2लूकः 2
Compare लूकः 2:10-31लूकः 2:10-31