Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 23

लूकः 23:7-12

Help us?
Click on verse(s) to share them!
7ततः स गालील्प्रदेशीयहेरोद्राजस्य तदा स्थितेस्तस्य समीपे यीशुं प्रेषयामास।
8तदा हेरोद् यीशुं विलोक्य सन्तुतोष, यतः स तस्य बहुवृत्तान्तश्रवणात् तस्य किञि्चदाश्चर्य्यकर्म्म पश्यति इत्याशां कृत्वा बहुकालमारभ्य तं द्रष्टुं प्रयासं कृतवान्।
9तस्मात् तं बहुकथाः पप्रच्छ किन्तु स तस्य कस्यापि वाक्यस्य प्रत्युत्तरं नोवाच।
10अथ प्रधानयाजका अध्यापकाश्च प्रोत्तिष्ठन्तः साहसेन तमपवदितुं प्रारेभिरे।
11हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।
12पूर्व्वं हेरोद्पीलातयोः परस्परं वैरभाव आसीत् किन्तु तद्दिने द्वयो र्मेलनं जातम्।

Read लूकः 23लूकः 23
Compare लूकः 23:7-12लूकः 23:7-12