Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 11

लूकः 11:7-17

Help us?
Click on verse(s) to share them!
7तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,
8तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।
9अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।
10यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।
11पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति
12वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?
13तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
14अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं मेनिरे।
15किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।
16तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे।
17तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।

Read लूकः 11लूकः 11
Compare लूकः 11:7-17लूकः 11:7-17