36नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?
37अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
38यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
39ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।
40एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।
41केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?