Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 4

योहनः 4:36-43

Help us?
Click on verse(s) to share them!
36यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।
37इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।
38यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।
39यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
40तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
41ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य
42तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
43स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्

Read योहनः 4योहनः 4
Compare योहनः 4:36-43योहनः 4:36-43