Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 11

योहनः 11:48-56

Help us?
Click on verse(s) to share them!
48यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
49तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
50समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
51एतां कथां स निजबुद्ध्या व्याहरद् इति न,
52किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
53तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।
54अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
55अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
56यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति?

Read योहनः 11योहनः 11
Compare योहनः 11:48-56योहनः 11:48-56