Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - मथिः - मथिः 16

मथिः 16:24-26

Help us?
Click on verse(s) to share them!
24अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
25यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।
26मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?

Read मथिः 16मथिः 16
Compare मथिः 16:24-26मथिः 16:24-26