Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 27

प्रेरिताः 27:25-30

Help us?
Click on verse(s) to share them!
25अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,
26किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः।
27ततः परम् आद्रियासमुद्रे पोतस्तथैव दोलायमानः सन् इतस्ततो गच्छन् चतुर्दशदिवसस्य रात्रे र्द्वितीयप्रहरसमये कस्यचित् स्थलस्य समीपमुपतिष्ठतीति पोतीयलोका अन्वमन्यन्त।
28ततस्ते जलं परिमाय तत्र विंशति र्व्यामा जलानीति ज्ञातवन्तः। किञ्चिद्दूरं गत्वा पुनरपि जलं परिमितवन्तः। तत्र पञ्चदश व्यामा जलानि दृष्ट्वा
29चेत् पाषाणे लगतीति भयात् पोतस्य पश्चाद्भागतश्चतुरो लङ्गरान् निक्षिप्य दिवाकरम् अपेक्ष्य सर्व्वे स्थितवन्तः।
30किन्तु पोतीयलोकाः पोताग्रभागे लङ्गरनिक्षेपं छलं कृत्वा जलधौ क्षुद्रनावम् अवरोह्य पलायितुम् अचेष्टन्त।

Read प्रेरिताः 27प्रेरिताः 27
Compare प्रेरिताः 27:25-30प्रेरिताः 27:25-30