19तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।
20ते स्वैः सार्द्धं पुनः कतिपयदिनानि स्थातुं तं व्यनयन्, स तदनुररीकृत्य कथामेतां कथितवान्,
21यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।
22ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्।
23तत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्।
24तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।