Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 12

प्रेरिताः 12:2-9

Help us?
Click on verse(s) to share them!
2विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।
3तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्।
4तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।
5किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।
6अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।
7एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।
8स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।
9ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

Read प्रेरिताः 12प्रेरिताः 12
Compare प्रेरिताः 12:2-9प्रेरिताः 12:2-9