14ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।
15ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्।
16तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्।
17पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।
18ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्।
19प्रभाते सति पितरः क्व गत इत्यत्र रक्षकाणां मध्ये महान् कलहो जातः।
20हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।
21पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्।
22सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं