Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 11

प्रेरिताः 11:11-17

Help us?
Click on verse(s) to share them!
11पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्।
12तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।
13सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;
14ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।
15अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्।
16तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।
17अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि?

Read प्रेरिताः 11प्रेरिताः 11
Compare प्रेरिताः 11:11-17प्रेरिताः 11:11-17