14तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।
15ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
16इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।
17ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,
18शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
19यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
20त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
21तस्मात् पितरोऽवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
22ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।