Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 7

लूकः 7:30-35

Help us?
Click on verse(s) to share them!
30किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
31अथ प्रभुः कथयामास, इदानीन्तनजनान् केनोपमामि? ते कस्य सदृशाः?
32ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।
33यतो योहन् मज्जक आगत्य पूपं नाखादत् द्राक्षारसञ्च नापिवत् तस्माद् यूयं वदथ, भूतग्रस्तोयम्।
34ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
35किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः।

Read लूकः 7लूकः 7
Compare लूकः 7:30-35लूकः 7:30-35