6ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
7ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
8तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
9अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
10तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
11ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
12ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
13ततः सोकथयत् निरूपितादधिकं न गृह्लित।
14अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
15अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
16तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
17अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
18योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।