Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 2

लूकः 2:1-6

Help us?
Click on verse(s) to share them!
1अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।
2तदनुसारेण कुरीणियनामनि सुरियादेशस्य शासके सति नामलेखनं प्रारेभे।
3अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।
4तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्
5यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।
6अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते

Read लूकः 2लूकः 2
Compare लूकः 2:1-6लूकः 2:1-6