17तत्रोत्सवे तेषामेको मोचयितव्यः।
18इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय।
19स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्।
20किन्तु पीलातो यीशुं मोचयितुं वाञ्छन् पुनस्तानुवाच।
21तथाप्येनं क्रुशे व्यध क्रुशे व्यधेति वदन्तस्ते रुरुवुः।
22ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।
23तथापि ते पुनरेनं क्रुशे व्यध इत्युक्त्वा प्रोच्चैर्दृढं प्रार्थयाञ्चक्रिरे;
24ततः प्रधानयाजकादीनां कलरवे प्रबले सति तेषां प्रार्थनारूपं कर्त्तुं पीलात आदिदेश।
25राजद्रोहवधयोरपराधेन कारास्थं यं जनं ते ययाचिरे तं मोचयित्वा यीशुं तेषामिच्छायां समार्पयत्।
26अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः।
27ततो लोाकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः।
28किन्तु स व्याघुट्य ता उवाच, हे यिरूशालमो नार्य्यो युयं मदर्थं न रुदित्वा स्वार्थं स्वापत्यार्थञ्च रुदिति;
29पश्यत यः कदापि गर्भवत्यो नाभवन् स्तन्यञ्च नापाययन् तादृशी र्वन्ध्या यदा धन्या वक्ष्यन्ति स काल आयाति।
30तदा हे शैला अस्माकमुपरि पतत, हे उपशैला अस्मानाच्छादयत कथामीदृशीं लोका वक्ष्यन्ति।
31यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते?
32तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।
33अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः।
34तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।
35तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।
36तदन्यः सेनागणा एत्य तस्मै अम्लरसं दत्वा परिहस्य प्रोवाच,
37चेत्त्वं यिहूदीयानां राजासि तर्हि स्वं रक्ष।
38यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस ऊर्द्ध्वेऽस्थाप्यत।
39तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।
40किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,
41योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं।
42अथ स यीशुं जगाद हे प्रभे भवान् स्वराज्यप्रवेशकाले मां स्मरतु।
43तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि।
44अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो
45मन्दिरस्य यवनिका च छिद्यमाना द्विधा बभूव।
46ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ।
47तदैता घटना दृष्ट्वा शतसेनापतिरीश्वरं धन्यमुक्त्वा कथितवान् अयं नितान्तं साधुमनुष्य आसीत्।
48अथ यावन्तो लोका द्रष्टुम् आगतास्ते ता घटना दृष्ट्वा वक्षःसु कराघातं कृत्वा व्याचुट्य गताः।
49यीशो र्ज्ञातयो या या योषितश्च गालीलस्तेन सार्द्धमायातास्ता अपि दूरे स्थित्वा तत् सर्व्वं ददृशुः।
50तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो
51यिहूदिदेशीयो ऽरिमथीयनगरीयो यूषफ्नामा मन्त्री भद्रो धार्म्मिकश्च पुमान्
52पीलातान्तिकं गत्वा यीशो र्देहं ययाचे।
53पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्।