Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 13

लूकः 13:13-31

Help us?
Click on verse(s) to share them!
13ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।
14किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
15तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?
16तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
17एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।
18अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?
19यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजमङ्कुरितं सत् महावृक्षोऽजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।
20पुनः कथयामास, ईश्वरस्य राज्यं कस्य सदृशं वदिष्यामि? यत् किण्वं काचित् स्त्री गृहीत्वा द्रोणत्रयपरिमितगोधूमचूर्णेषु स्थापयामास,
21ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।
22ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
23तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?
24ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।
25गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।
26तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेाजनं पानञ्च कृतवन्तः, त्वञ्चास्माकं नगरस्य पथि समुपदिष्टवान्।
27किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।
28तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।
29अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।
30पश्यतेत्थं शेषीया लोका अग्रा भविष्यन्ति, अग्रीया लोकाश्च शेषा भविष्यन्ति।
31अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।

Read लूकः 13लूकः 13
Compare लूकः 13:13-31लूकः 13:13-31