33अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;
34यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
35अपरञ्च यूयं प्रदीपं ज्वालयित्वा बद्धकटयस्तिष्ठत;
36प्रभु र्विवाहादागत्य यदैव द्वारमाहन्ति तदैव द्वारं मोचयितुं यथा भृत्या अपेक्ष्य तिष्ठन्ति तथा यूयमपि तिष्ठत।
37यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
38यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः।
39अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।
40अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति।
41तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?
42ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?
43प्रभुरागत्य यम् एतादृशे कर्म्मणि प्रवृत्तं द्रक्ष्यति सएव दासो धन्यः।
44अहं युष्मान् यथार्थं वदामि स तं निजसर्व्वस्वस्याधिपतिं करिष्यति।
45किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,
46तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।
47यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;
48किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।
49अहं पृथिव्याम् अनैक्यरूपं वह्नि निक्षेप्तुम् आगतोस्मि, स चेद् इदानीमेव प्रज्वलति तत्र मम का चिन्ता?
50किन्तु येन मज्जनेनाहं मग्नो भविष्यामि यावत्कालं तस्य सिद्धि र्न भविष्यति तावदहं कतिकष्टं प्राप्स्यामि।
51मेलनं कर्त्तुं जगद् आगतोस्मि यूयं किमित्थं बोधध्वे? युष्मान् वदामि न तथा, किन्त्वहं मेलनाभावं कर्त्तुंम् आगतोस्मि।
52यस्मादेतत्कालमारभ्य एकत्रस्थपरिजनानां मध्ये पञ्चजनाः पृथग् भूत्वा त्रयो जना द्वयोर्जनयोः प्रतिकूला द्वौ जनौ च त्रयाणां जनानां प्रतिकूलौ भविष्यन्ति।
53पिता पुत्रस्य विपक्षः पुत्रश्च पितु र्विपक्षो भविष्यति माता कन्याया विपक्षा कन्या च मातु र्विपक्षा भविष्यति, तथा श्वश्रूर्बध्वा विपक्षा बधूश्च श्वश्र्वा विपक्षा भविष्यति।
54स लोकेभ्योपरमपि कथयामास, पश्चिमदिशि मेघोद्गमं दृष्ट्वा यूयं हठाद् वदथ वृष्टि र्भविष्यति ततस्तथैव जायते।
55अपरं दक्षिणतो वायौ वाति सति वदथ निदाघो भविष्यति ततः सोपि जायते।
56रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,
57किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?
58अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति