21बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।
22किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।
23अतः कारणाद् यो मम सपक्षो न स विपक्षः, यो मया सह न संगृह्लाति स विकिरति।
24अपरञ्च अमेध्यभूतो मानुषस्यान्तर्निर्गत्य शुष्कस्थाने भ्रान्त्वा विश्रामं मृगयते किन्तु न प्राप्य वदति मम यस्माद् गृहाद् आगतोहं पुनस्तद् गृहं परावृत्य यामि।
25ततो गत्वा तद् गृहं मार्जितं शोभितञ्च दृष्ट्वा
26तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।
27अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।
28किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।
29ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
30यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
31विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
32अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
33प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।
34देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।
35अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव।
36यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।
37एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
38किन्तु भोजनात् पूर्व्वं नामाङ्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं मेने।
39तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।
40हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?
41तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
42किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।
43हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।
44वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।
45तदानीं व्यवस्थापकानाम् एका यीशुमवदत्, हे उपदेशक वाक्येनेदृशेनास्मास्वपि दोषम् आरोपयसि।
46ततः स उवाच, हा हा व्यवस्थापका यूयम् मानुषाणाम् उपरि दुःसह्यान् भारान् न्यस्यथ किन्तु स्वयम् एकाङ्गुुल्यापि तान् भारान् न स्पृशथ।
47हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनोऽवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ।
48तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।