10इत्थं सति जीवननिमित्ता याज्ञा सा मम मृत्युजनिकाभवत्।
11यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।
12अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।
13तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।
14व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।
15यतो यत् कर्म्म करोमि तत् मम मनोऽभिमतं नहि; अपरं यन् मम मनोऽभिमतं तन्न करोमि किन्तु यद् ऋतीये तत् करोमि।
16तथात्वे यन् ममानभिमतं तद् यदि करोमि तर्हि व्यवस्था सूत्तमेति स्वीकरोमि।
17अतएव सम्प्रति तत् कर्म्म मया क्रियत इति नहि किन्तु मम शरीरस्थेन पापेनैव क्रियते।
18यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
19यतो यामुत्तमां क्रियां कर्त्तुमहं वाञ्छामि तां न करोमि किन्तु यत् कुत्सितं कर्म्म कर्त्तुम् अनिच्छुकोऽस्मि तदेव करोमि।
20अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते।
21भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।