Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 7

रोमिणः 7:1-4

Help us?
Click on verse(s) to share them!
1हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?
2यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।
3एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।
4हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।

Read रोमिणः 7रोमिणः 7
Compare रोमिणः 7:1-4रोमिणः 7:1-4