Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 5

रोमिणः 5:6-12

Help us?
Click on verse(s) to share them!
6अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।
7हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।
8किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
9अतएव तस्य रक्तपातेन सपुण्यीकृता वयं नितान्तं तेन कोपाद् उद्धारिष्यामहे।
10फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।
11तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।
12तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।

Read रोमिणः 5रोमिणः 5
Compare रोमिणः 5:6-12रोमिणः 5:6-12