Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 5

रोमिणः 5:2-11

Help us?
Click on verse(s) to share them!
2अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।
3तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः,
4धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,
5प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।
6अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।
7हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।
8किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
9अतएव तस्य रक्तपातेन सपुण्यीकृता वयं नितान्तं तेन कोपाद् उद्धारिष्यामहे।
10फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।
11तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।

Read रोमिणः 5रोमिणः 5
Compare रोमिणः 5:2-11रोमिणः 5:2-11