Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 5

रोमिणः 5:15-21

Help us?
Click on verse(s) to share them!
15किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।
16अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव।
17यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।
18एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव।
19अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।
20अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।
21तेन मृत्युना यद्वत् पापस्य राजत्वम् अभवत् तद्वद् अस्माकं प्रभुयीशुख्रीष्टद्वारानन्तजीवनदायिपुण्येनानुग्रहस्य राजत्वं भवति।

Read रोमिणः 5रोमिणः 5
Compare रोमिणः 5:15-21रोमिणः 5:15-21